मन्द्दात्मकं श्रीमारुतिस्तोत्रम्


मन्द्दात्मकं श्रीमारुतिस्तोत्रम्

नमो वायुपुत्राय भीमरूपाय धीमते।
नमस्ते रामदूताय कामरूपाय श्रीमते॥

मोहशेाकविनाशाय सीताशोकविनाशिने।
भगनशोकवनायास्तु दग्धलङ्काय वाग्मिने॥

गतिनिर्जितवाताय लक्ष्मणप्राणदाय च।
वनौकसां वरिष्ठाय वशिने वनवासिने॥

तत्त्‍‌वज्ञानसुधासिन्धुनिमगनय महीयते।
आञ्जनेयाय शूराय सुग्रीवसचिवाय ते॥

जन्ममृत्युभयघनय सर्वक£ेशहराय च।
नेदिष्ठाय प्रेतभूतपिशाचभयहारिणे॥

यातनानाशनायास्तु नमो मर्कटरूपिणे।
यक्षराक्षसशार्दूलसर्पवृश्चिकभीहृते॥

महाबलाय वीराय चिरंजीविन उद्धते।
हारिणे वज्रदेहाय चोल्लङ्घितमहाब्धये॥

बलिनामग्रगण्याय नमो न: पाहि मारुते।
लाभदोऽसि त्वमेवाशु हनुमन् राक्षसान्तक॥

यशो जयं च मे देहि शत्रून् नाशय नाशय।
स्वाश्रितानामभयदं य एवं स्तौति मारुतिम्।
हानि: कुतो भवेत्तस्य सर्वत्र विजयी भवेत्॥

Hanuman, Hindu Devotional, Hanuman Stotra

No comments:

Post a Comment