Ramayana Ayodhyakaṇḍa


valmiki
|| वाल्मीकि रामायण - अयोध्याकाण्ड ||

|| सर्ग ||

कस्य चित्त्वथ कालस्य राजा दशरथः सुतम् |
भरतं केकयीपुत्रमब्रवीद्रघुनन्दनः || १||

अयं केकयराजस्य पुत्रो वसति पुत्रक |
त्वां नेतुमागतो वीर युधाजिन्मातुलस्तव || २||

श्रुत्वा दशरथस्यैतद्भरतः केकयीसुतः |
गमनायाभिचक्राम शत्रुघ्नसहितस्तदा || ३||

आपृच्छ्य पितरं शूरो रामं चाक्लिष्टकारिणम् |
मातॄंश्चापि नरश्रेष्ठः शत्रुघ्नसहितो ययौ || ४||

युधाजित्प्राप्य भरतं सशत्रुघ्नं प्रहर्षितः |
स्वपुरं प्राविशद्वीरः पिता तस्य तुतोष ह || ५||

स तत्र न्यवसद्भ्रात्रा सह सत्कारसत्कृतः |
मातुलेनाश्वपतिना पुत्रस्नेहेन लालितः || ६||

तत्रापि निवसन्तौ तौ तर्प्यमाणौ च कामतः |
भ्रातरौ स्मरतां वीरौ वृद्धं दशरथं नृपम् || ७||

राजापि तौ महातेजाः सस्मार प्रोषितौ सुतौ |
उभौ भरतशत्रुघ्नौ महेन्द्रवरुणोपमौ || ८||

सर्व एव तु तस्येष्टाश्चत्वारः पुरुषर्षभाः |
स्वशरीराद्विनिर्वृत्ताश्चत्वार इव बाहवः || ९||

तेषामपि महातेजा रामो रतिकरः पितुः |
स्वयम्भूरिव भूतानां बभूव गुणवत्तरः || १०||

गते च भरते रामो लक्ष्मणश्च महाबलः |
पितरं देवसङ्काशं पूजयामासतुस्तदा || ११||

पितुराज्ञां पुरस्कृत्य पौरकार्याणि सर्वशः |
चकार रामो धर्मात्मा प्रियाणि च हितानि च || १२||

मातृभ्यो मातृकार्याणि कृत्वा परमयन्त्रितः |
गुरूणां गुरुकार्याणि काले कालेऽन्ववैक्षत || १३||

एवं दशरथः प्रीतो ब्राह्मणा नैगमास्तथा |
रामस्य शीलवृत्तेन सर्वे विषयवासिनः || १४||

स हि नित्यं प्रशान्तात्मा मृदुपूर्वं च भाषते |
उच्यमानोऽपि परुषं नोत्तरं प्रतिपद्यते || १५||

कथं चिदुपकारेण कृतेनैकेन तुष्यति |
न स्मरत्यपकाराणां शतमप्यात्मवत्तया || १६||

शीलवृद्धैर्ज्ञानवृद्धैर्वयोवृद्धैश्च सज्जनैः |
कथयन्नास्त वै नित्यमस्त्रयोग्यान्तरेष्वपि || १७||

कल्याणाभिजनः साधुरदीनः सत्यवागृजुः |
वृद्धैरभिविनीतश्च द्विजैर्धर्मार्थदर्शिभिः || १८||

धर्मार्थकामतत्त्वज्ञः स्मृतिमान्प्रतिभावनान् |
लौकिके समयाचरे कृतकल्पो विशारदः || १९||

शास्त्रज्ञश्च कृतज्ञश्च पुरुषान्तरकोविदः |
यः प्रग्रहानुग्रहयोर्यथान्यायं विचक्षणः || २०||

आयकर्मण्युपायज्ञः सन्दृष्टव्ययकर्मवित् |
श्रैष्ठ्यं शास्त्रसमूहेषु प्राप्तो व्यामिश्रकेष्वपि || २१||

अर्थधर्मौ च सङ्गृह्य सुखतन्त्रो न चालसः |
वैहारिकाणां शिल्पानां विज्ञातार्थविभागवित् || २२||

आरोहे विनये चैव युक्तो वारणवाजिनाम् |
धनुर्वेदविदां श्रेष्ठो लोकेऽतिरथसंमतः || २३||

अभियाता प्रहर्ता च सेनानयविशारदः |
अप्रधृष्यश्च सङ्ग्रामे क्रुद्धैरपि सुरासुरैः || २४||

अनसूयो जितक्रोधो न दृप्तो न च मत्सरी |
न चावमन्ता भूतानां न च कालवशानुगः || २५||

एवं श्रैष्ठैर्गुणैर्युक्तः प्रजानां पार्थिवात्मजः |
संमतस्त्रिषु लोकेषु वसुधायाः क्षमागुणैः |
बुद्ध्या बृहस्पतेस्तुल्यो वीर्येणापि शचीपतेः || २६||

तथा सर्वप्रजाकान्तैः प्रीतिसञ्जननैः पितुः |
गुणैर्विरुरुचे रामो दीप्तः सूर्य इवांशुभिः || २७||

तमेवंवृत्तसम्पन्नमप्रधृष्य पराक्रमम् |
लोकपालोपमं नाथमकामयत मेदिनी || २८||

एतैस्तु बहुभिर्युक्तं गुणैरनुपमैः सुतम् |
दृष्ट्वा दशरथो राजा चक्रे चिन्तां परन्तपः || २९||

एषा ह्यस्य परा प्रीतिर्हृदि सम्परिवर्तते |
कदा नाम सुतं द्रक्ष्याम्यभिषिक्तमहं प्रियम् || ३०||

वृद्धिकामो हि लोकस्य सर्वभूतानुकम्पनः |
मत्तः प्रियतरो लोके पर्जन्य इव वृष्टिमान् || ३१||

यमशक्रसमो वीर्ये बृहस्पतिसमो मतौ |
महीधरसमो धृत्यां मत्तश्च गुणवत्तरः || ३२||

महीमहमिमां कृत्स्नामधितिष्ठन्तमात्मजम् |
अनेन वयसा दृष्ट्वा यथा स्वर्गमवाप्नुयाम् || ३३||

तं समीक्ष्य महाराजो युक्तं समुदितैर्गुणैः |
निश्चित्य सचिवैः सार्धं युवराजममन्यत || ३४||

नानानगरवास्तव्यान्पृथग्जानपदानपि |
समानिनाय मेदिन्याः प्रधानान्पृथिवीपतिः || ३५||

अथ राजवितीर्णेषु विविधेष्वासनेषु च |
राजानमेवाभिमुखा निषेदुर्नियता नृपाः || ३६||

स लब्धमानैर्विनयान्वितैर्नृपैः पुरालयैर्जानपदैश्च मानवैः |
उपोपविष्टैर्नृपतिर्वृतो बभौ सहस्रचक्षुर्भगवानिवामरैः || ३७||


.................................

You might also like :



Share this article with your Network  : Bookmark and Share

No comments:

Post a Comment