|| वाल्मीकि रामायण - उत्तरकाण्ड ||
You might also like :
|| सर्ग ||
प्राप्तराजस्य रामस्य राक्षसानां वधे कृते |
आजग्मुरृषयः सर्वे राघवं प्रतिनन्दितुम् || १||
कौशिकोऽथ यवक्रीता रौभ्यश् च्यवन एव च |
कण्वो मेधातिथेः पुत्रः पूर्वस्यां दिशि ये श्रिताः || २||
स्वस्त्यात्रेयश्च भगवान्नमुचिः प्रमुचुस्तथा |
आजग्मुस्ते सहागस्त्या ये श्रिता दक्षिणां दिशम् || ३||
पृषद्गुः कवषो धौम्यो रौद्रेयश्च महानृषिः |
तेऽप्याजग्मुः सशिष्या वै ये श्रिताः पश्चिमां दिशम् || ४||
वसिष्ठः कश्यपोऽथात्रिर्विश्वामित्रोऽथ गौतमः |
जमदग्निर्भरद्वाजस्तेऽपि सप्तमहर्षयः || ५||
सम्प्राप्यैते महात्मानो राघवस्य निवेशनम् |
विष्ठिताः प्रतिहारार्थं हुताशनसमप्रभाः || ६||
प्रतिहारस्ततस्तूर्णमगस्त्यवचनादथ |
समीपं राघवस्याशु प्रविवेश महात्मनः || ७||
स रामं दृश्य सहसा पूर्णचन्द्रसमद्युतिम् |
अगस्त्यं कथयामास सम्प्रातमृषिभिः सह || ८||
श्रुत्वा प्राप्तान्मुनींस्तांस्तु बालसूर्यसमप्रभान् |
तदोवाच नृपो द्वाःस्थं प्रवेशय यथासुखम् || ९||
दृष्ट्वा प्राप्तान्मुनींस्तांस्तु प्रत्युत्थाय कृताञ्जलिः |
रामोऽभिवाद्य प्रयत आसनान्यादिदेश ह || १०||
तेषु काञ्चनचित्रेषु स्वास्त्रीर्णेषु सुखेषु च |
यथार्हमुपविष्टास्ते आसनेष्वृषिपुङ्गवाः || ११||
रामेण कुशलं पृष्ठाः सशिष्याः सपुरोगमाः |
महर्षयो वेदविदो रामं वचनमब्रुवन् || १२||
कुशलं नो महाबाहो सर्वत्र रघुनन्दन |
त्वां तु दिष्ट्या कुशलिनं पश्यामो हतशात्रवम् || १३||
न हि भारः स ते राम रावणो राक्षसेश्वरः |
सधनुस्त्वं हि लोकांस्त्रीन्विजयेथा न संशयः || १४||
दिष्ट्या त्वया हतो राम रावणः पुत्रपौत्रवान् |
दिष्ट्या विजयिनं त्वाद्य पश्यामः सह भार्यया || १५||
दिष्ट्या प्रहस्तो विकटो विरूपाक्षो महोदरः |
अकम्पनश्च दुर्धर्षो निहतास्ते निशाचराः || १६||
यस्य प्रमाणाद्विपुलं प्रमाणं नेह विद्यते |
दिष्ट्या ते समरे राम कुम्भकर्णो निपातितः || १७||
दिष्ट्या त्वं राक्षसेन्द्रेण द्वन्द्वयुद्धमुपागतः |
देवतानामवध्येन विजयं प्राप्तवानसि || १८||
सङ्ख्ये तस्य न किं चित्तु रावणस्य पराभवः |
द्वन्द्वयुद्धमनुप्राप्तो दिष्ट्या ते रावणिर्हतः || १९||
दिष्ट्या तस्य महाबाहो कालस्येवाभिधावतः |
मुक्तः सुररिपोर्वीर प्राप्तश्च विजयस्त्वया || २०||
विस्मयस्त्वेष नः सौम्य संश्रुत्येन्द्रजितं हतम् |
अवध्यः सर्वभूतानां महामायाधरो युधि || २१||
दत्त्वा पुण्यामिमां वीर सौम्यामभयदक्षिणाम् |
दिष्ट्या वर्धसि काकुत्स्थ जयेनामित्रकर्शन || २२||
श्रुत्वा तु वचनं तेषामृषीणां भावितात्मनाम् |
विस्मयं परमं गत्वा रामः प्राञ्जलिरब्रवीत् || २३||
भवन्तः कुम्भकर्णं च रावणं च निशाचरम् |
अतिक्रम्य महावीर्यौ किं प्रशंसथ रावणिम् || २४||
महोदरं प्रहस्तं च विरूपाक्षं च राक्षसं |
अतिकम्य महावीर्यान्किं प्रशंसथ रावणिम् || २५||
कीदृशो वै प्रभावोऽस्य किं बलं कः पराक्रमः |
केन वा कारणेनैष रावणादतिरिच्यते || २६||
शक्यं यदि मया श्रोतुं न खल्वाज्ञापयामि वः |
यदि गुह्यं न चेद्वक्तुं श्रोतुमिच्छामि कथ्यताम् |
कथं शक्रो जितस्तेन कथं लब्धवरश्च सः || २७||

..................................................................
You might also like :
No comments:
Post a Comment