|| वाल्मीकि रामायण - सुन्दरकाण्ड ||
स तदा पातितस्तेन कपिना पर्वतोत्तमः |
बुद्ध्वा तस्य कपेर्वेगं जहर्ष च ननन्द च || ९६||
तमाकाशगतं वीरमाकाशे समवस्थितम् |
प्रीतो हृष्टमना वाक्यमब्रवीत्पर्वतः कपिम् |
मानुषं धरयन्रूपमात्मनः शिखरे स्थितः || ९७||
दुष्करं कृतवान्कर्म त्वमिदं वानरोत्तम |
निपत्य मम शृङ्गेषु विश्रमस्व यथासुखम् || ९८||
राघावस्य कुले जातैरुदधिः परिवर्धितः |
स त्वां रामहिते युक्तं प्रत्यर्चयति सागरः || ९९||
कृते च प्रतिकर्तव्यमेष धर्मः सनातनः |
सोऽयं तत्प्रतिकारार्थी त्वत्तः संमानमर्हति || १००||
त्वन्निमित्तमनेनाहं बहुमानात्प्रचोदितः |
योजनानां शतं चापि कपिरेष समाप्लुतः |
तव सानुषु विश्रान्तः शेषं प्रक्रमताम् इति || १०१||
तिष्ठ त्वं हरिशार्दूल मयि विश्रम्य गम्यताम् |
तदिदं गन्धवत्स्वादु कन्दमूलफलं बहु |
तदास्वाद्य हरिश्रेष्ठ विश्रान्तोऽनुगमिष्यसि || १०२||
अस्माकमपि सम्बन्धः कपिमुख्यस्त्वयास्ति वै |
प्रख्यतस्त्रिषु लोकेषु महागुणपरिग्रहः || १०३||
वेगवन्तः प्लवन्तो ये प्लवगा मारुतात्मज |
तेषां मुख्यतमं मन्ये त्वामहं कपिकुञ्जर || १०४||
अतिथिः किल पूजार्हः प्राकृतोऽपि विजानता |
धर्मं जिज्ञासमानेन किं पुनर्यादृशो भवान् || १०५||
त्वं हि देववरिष्ठस्य मारुतस्य महात्मनः |
पुत्रस्तस्यैव वेगेन सदृशः कपिकुञ्जर || १०६||
पूजिते त्वयि धर्मज्ञ पूजां प्राप्नोति मारुतः |
तस्मात्त्वं पूजनीयो मे शृणु चाप्यत्र कारणम् || १०७||
पूर्वं कृतयुगे तात पर्वताः पक्षिणोऽभवन् |
तेऽपि जग्मुर्दिशः सर्वा गरुडानिलवेगिनः || १०८||
ततस्तेषु प्रयातेषु देवसङ्घाः सहर्षिभिः |
भूतानि च भयं जग्मुस्तेषां पतनशङ्कया || १०९||
ततः क्रुद्धः सहस्राक्षः पर्वतानां शतक्रतुः |
पक्षांश्चिच्छेद वज्रेण तत्र तत्र सहस्रशः || ११०||
स मामुपगतः क्रुद्धो वज्रमुद्यम्य देवराट् |
ततोऽहं सहसा क्षिप्तः श्वसनेन महात्मना || १११||
अस्मिँल्लवणतोये च प्रक्षिप्तः प्लवगोत्तम |
गुप्तपक्षः समग्रश्च तव पित्राभिरक्षितः || ११२||
ततोऽहं मानयामि त्वां मान्यो हि मम मारुतः |
त्वया मे ह्येष सम्बन्धः कपिमुख्य महागुणः || ११३||
अस्मिन्नेवङ्गते कार्ये सागरस्य ममैव च |
प्रीतिं प्रीतमना कर्तुं त्वमर्हसि महाकपे || ११४||
श्रमं मोक्षय पूजां च गृहाण कपिसत्तम |
प्रीतिं च बहुमन्यस्व प्रीतोऽस्मि तव दर्शनात् || ११५||
एवमुक्तः कपिश्रेष्ठस्तं नगोत्तममब्रवीत् |
प्रीतोऽस्मि कृतमातिथ्यं मन्युरेषोऽपनीयताम् || ११६||
त्वरते कार्यकालो मे अहश्चाप्यतिवर्तते |
प्रतिज्ञा च मया दत्ता न स्थातव्यमिहान्तरा || ११७||
इत्युक्त्वा पाणिना शैलमालभ्य हरिपुङ्गवः |
जगामाकाशमाविश्य वीर्यवान्प्रहसन्निव || ११८||
स पर्वतसमुद्राभ्यां बहुमानादवेक्षितः |
पूजितश्चोपपन्नाभिराशीर्भिरनिलात्मजः || ११९||
अथोर्ध्वं दूरमुत्पत्य हित्वा शैलमहार्णवौ |
पितुः पन्थानमास्थाय जगाम विमलेऽम्बरे || १२०||
भूयश्चोर्ध्वगतिं प्राप्य गिरिं तमवलोकयन् |
वायुसूनुर्निरालम्बे जगाम विमलेऽम्बरे || १२१||
तद्द्वितीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम् |
प्रशशंसुः सुराः सर्वे सिद्धाश्च परमर्षयः || १२२||
देवताश्चाभवन्हृष्टास्तत्रस्थास्तस्य कर्मणा |
काञ्चनस्य सुनाभस्य सहस्राक्षश्च वासवः || १२३||
उवाच वचनं धीमान्परितोषात्सगद्गदम् |
सुनाभं पर्वतश्रेष्ठं स्वयमेव शचीपतिः || १२४||
हिरण्यनाभशैलेन्द्रपरितुष्टोऽस्मि ते भृशम् |
अभयं ते प्रयच्छामि तिष्ठ सौम्य यथासुखम् || १२५||
साह्यं कृतं ते सुमहद्विक्रान्तस्य हनूमतः |
क्रमतो योजनशतं निर्भयस्य भये सति || १२६||
रामस्यैष हि दौत्येन याति दाशरथेर्हरिः |
सत्क्रियां कुर्वता शक्या तोषितोऽस्मि दृढं त्वया || १२७||
ततः प्रहर्षमलभद्विपुलं पर्वतोत्तमः |
देवतानां पतिं दृष्ट्वा परितुष्टं शतक्रतुम् || १२८||
स वै दत्तवरः शैलो बभूवावस्थितस्तदा |
हनूमांश्च मुहूर्तेन व्यतिचक्राम सागरम् || १२९||
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः |
अब्रुवन्सूर्यसङ्काशां सुरसां नागमातरम् || १३०||
अयं वातात्मजः श्रीमान्प्लवते सागरोपरि |
हनूमान्नाम तस्य त्वं मुहूर्तं विघ्नमाचर || १३१||
राक्षसं रूपमास्थाय सुघोरं पर्वतोपमम् |
दंष्ट्राकरालं पिङ्गाक्षं वक्त्रं कृत्वा नभःस्पृशम् || १३२||
बलमिच्छामहे ज्ञातुं भूयश्चास्य पराक्रमम् |
त्वां विजेष्यत्युपायेन विषदं वा गमिष्यति || १३३||
एवमुक्ता तु सा देवी दैवतैरभिसत्कृता |
समुद्रमध्ये सुरसा बिभ्रती राक्षसं वपुः || १३४||
विकृतं च विरूपं च सर्वस्य च भयावहम् |
प्लवमानं हनूमन्तमावृत्येदमुवाच ह || १३५||
मम भक्षः प्रदिष्टस्त्वमीश्वरैर्वानरर्षभ |
अहं त्वां भक्षयिष्यामि प्रविशेदं ममाननम् || १३६||
एवमुक्तः सुरसया प्राञ्जलिर्वानरर्षभः |
प्रहृष्टवदनः श्रीमानिदं वचनमब्रवीत् || १३७||
रामो दाशरथिर्नाम प्रविष्टो दण्डकावनम् |
लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया || १३८||
अस्य कार्यविषक्तस्य बद्धवैरस्य राक्षसैः |
तस्य सीता हृता भार्या रावणेन यशस्विनी || १३९||
तस्याः सकाशं दूतोऽहं गमिष्ये रामशासनात् |
कर्तुमर्हसि रामस्य साह्यं विषयवासिनि || १४०||
अथ वा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम् |
आगमिष्यामि ते वक्त्रं सत्यं प्रतिशृणोमि ते || १४१||
एवमुक्ता हनुमता सुरसा कामरूपिणी |
अब्रवीन्नातिवर्तेन्मां कश्चिदेष वरो मम || १४२||
एवमुक्तः सुरसया क्रुद्धो वानरपुङ्गवः |
अब्रवीत्कुरु वै वक्त्रं येन मां विषहिष्यसे || १४३||
इत्युक्त्वा सुरसां क्रुद्धो दशयोजनमायतः |
दशयोजनविस्तारो बभूव हनुमांस्तदा || १४४||
तं दृष्ट्वा मेघसङ्काशं दशयोजनमायतम् |
चकार सुरसाप्यास्यं विंशद्योजनमायतम् || १४५||
हनुमांस्तु ततः क्रुद्धस्त्रिंशद्योजनमायतः |
चकार सुरसा वक्त्रं चत्वारिंशत्तथोच्छ्रितम् || १४६||
बभूव हनुमान्वीरः पञ्चाशद्योजनोच्छ्रितः |
चकार सुरसा वक्त्रं षष्टियोजनमायतम् || १४७||
तथैव हनुमान्वीरः सप्ततिं योजनोच्छ्रितः |
चकार सुरसा वक्त्रमशीतिं योजनायतम् || १४८||
हनूमानचल प्रख्यो नवतिं योजनोच्छ्रितः |
चकार सुरसा वक्त्रं शतयोजनमायतम् || १४९||
तद्दृष्ट्वा व्यादितं त्वास्यं वायुपुत्रः स बुद्धिमान् |
दीर्घजिह्वं सुरसया सुघोरं नरकोपमम् || १५०||
स सङ्क्षिप्यात्मनः कायं जीमूत इव मारुतिः |
तस्मिन्मुहूर्ते हनुमान्बभूवाङ्गुष्ठमात्रकः || १५१||
सोऽभिपत्याशु तद्वक्त्रं निष्पत्य च महाजवः |
अन्तरिक्षे स्थितः श्रीमानिदं वचनमब्रवीत् || १५२||
प्रविष्टोऽस्मि हि ते वक्त्रं दाक्षायणि नमोऽस्तु ते |
गमिष्ये यत्र वैदेही सत्यं चास्तु वचस्तव || १५३||
तं दृष्ट्वा वदनान्मुक्तं चन्द्रं राहुमुखादिव |
अब्रवीत्सुरसा देवी स्वेन रूपेण वानरम् || १५४||
अर्थसिद्ध्यै हरिश्रेष्ठ गच्छ सौम्य यथासुखम् |
समानय च वैदेहीं राघवेण महात्मना || १५५||
तत्तृतीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम् |
साधु साध्विति भूतानि प्रशशंसुस्तदा हरिम् || १५६||
स सागरमनाधृष्यमभ्येत्य वरुणालयम् |
जगामाकाशमाविश्य वेगेन गरुणोपमः || १५७||
सेविते वारिधारिभिः पतगैश्च निषेविते |
चरिते कैशिकाचार्यैरैरावतनिषेविते || १५८||
सिंहकुञ्जरशार्दूलपतगोरगवाहनैः |
विमानैः सम्पतद्भिश्च विमलैः समलङ्कृते || १५९||
वज्राशनिसमाघातैः पावकैरुपशोभिते |
कृतपुण्यैर्महाभागैः स्वर्गजिद्भिरलङ्कृते || १६०||
बहता हव्यमत्यन्तं सेविते चित्रभानुना |
ग्रहनक्षत्रचन्द्रार्कतारागणविभूषिते || १६१||
महर्षिगणगन्धर्वनागयक्षसमाकुले |
विविक्ते विमले विश्वे विश्वावसुनिषेविते || १६२||
देवराजगजाक्रान्ते चन्द्रसूर्यपथे शिवे |
विताने जीवलोकस्य विततो ब्रह्मनिर्मिते || १६३||
बहुशः सेविते वीरैर्विद्याधरगणैर्वरैः |
कपिना कृष्यमाणानि महाभ्राणि चकाशिरे || १६४||
प्रविशन्नभ्रजालानि निष्पतंश्च पुनः पुनः |
प्रावृषीन्दुरिवाभाति निष्पतन्प्रविशंस्तदा || १६५||
प्लवमानं तु तं दृष्ट्वा सिंहिका नाम राक्षसी |
मनसा चिन्तयामास प्रवृद्धा कामरूपिणी || १६६||
अद्य दीर्घस्य कालस्य भविष्याम्यहमाशिता |
इदं हि मे महत्सत्त्वं चिरस्य वशमागतम् || १६७||
इति सञ्चिन्त्य मनसा छायामस्य समक्षिपत् |
छायायां सङ्गृहीतायां चिन्तयामास वानरः || १६८||
समाक्षिप्तोऽस्मि सहसा पङ्गूकृतपराक्रमः |
प्रतिलोमेन वातेन महानौरिव सागरे || १६९||
तिर्यगूर्ध्वमधश्चैव वीक्षमाणस्ततः कपिः |
ददर्श स महासत्त्वमुत्थितं लवणाम्भसि || १७०||
कपिराज्ञा यदाख्यातं सत्त्वमद्भुतदर्शनम् |
छायाग्राहि महावीर्यं तदिदं नात्र संशयः || १७१||
स तां बुद्ध्वार्थतत्त्वेन सिंहिकां मतिमान्कपिः |
व्यवर्धत महाकायः प्रावृषीव बलाहकः || १७२||
तस्य सा कायमुद्वीक्ष्य वर्धमानं महाकपेः |
वक्त्रं प्रसारयामास पातालाम्बरसंनिभम् || १७३||
स ददर्श ततस्तस्या विकृतं सुमहन्मुखम् |
कायमात्रं च मेधावी मर्माणि च महाकपिः || १७४||
स तस्या विवृते वक्त्रे वज्रसंहननः कपिः |
सङ्क्षिप्य मुहुरात्मानं निष्पपात महाबलः || १७५||
आस्ये तस्या निमज्जन्तं ददृशुः सिद्धचारणाः |
ग्रस्यमानं यथा चन्द्रं पूर्णं पर्वणि राहुणा || १७६||
ततस्तस्य नखैस्तीक्ष्णैर्मर्माण्युत्कृत्य वानरः |
उत्पपाताथ वेगेन मनःसम्पातविक्रमः || १७७||
तां हतां वानरेणाशु पतितां वीक्ष्य सिंहिकाम् |
भूतान्याकाशचारीणि तमूचुः प्लवगर्षभम् || १७८||
भीममद्य कृतं कर्म महत्सत्त्वं त्वया हतम् |
साधयार्थमभिप्रेतमरिष्टं प्लवतां वर || १७९||
यस्य त्वेतानि चत्वारि वानरेन्द्र यथा तव |
धृतिर्दृष्टिर्मतिर्दाक्ष्यं स कर्मसु न सीदति || १८०||
स तैः सम्भावितः पूज्यः प्रतिपन्नप्रयोजनः |
जगामाकाशमाविश्य पन्नगाशनवत्कपिः || १८१||
प्राप्तभूयिष्ठ पारस्तु सर्वतः प्रतिलोकयन् |
योजनानां शतस्यान्ते वनराजिं ददर्श सः || १८२||
ददर्श च पतन्नेव विविधद्रुमभूषितम् |
द्वीपं शाखामृगश्रेष्ठो मलयोपवनानि च || १८३||
सागरं सागरानूपान्सागरानूपजान्द्रुमान् |
सागरस्य च पत्नीनां मुखान्यपि विलोकयन् || १८४||
स महामेघसङ्काशं समीक्ष्यात्मानमात्मना |
निरुन्धन्तमिवाकाशं चकार मतिमान्मतिम् || १८५||
कायवृद्धिं प्रवेगं च मम दृष्ट्वैव राक्षसाः |
मयि कौतूहलं कुर्युरिति मेने महाकपिः || १८६||
ततः शरीरं सङ्क्षिप्य तन्महीधरसंनिभम् |
पुनः प्रकृतिमापेदे वीतमोह इवात्मवान् || १८७||
स चारुनानाविधरूपधारी
परं समासाद्य समुद्रतीरम् |
परैरशक्यप्रतिपन्नरूपः
समीक्षितात्मा समवेक्षितार्थः || १८८||
ततः स लम्बस्य गिरेः समृद्धे
विचित्रकूटे निपपात कूटे |
सकेतकोद्दालकनालिकेरे
महाद्रिकूटप्रतिमो महात्मा || १८९||
स सागरं दानवपन्नगायुतं
बलेन विक्रम्य महोर्मिमालिनम् |
निपत्य तीरे च महोदधेस्तदा
ददर्श लङ्काममरावतीम् इव || १९०||

..................................................................
You might also like :
No comments:
Post a Comment