Ramayana Aranyakanda


valmiki
|| वाल्मीकि रामायण - अरण्यकाण्ड ||

|| सर्ग ||

प्रविश्य तु महारण्यं दण्डकारण्यमात्मवान् |
ददर्श रामो दुर्धर्षस्तापसाश्रममण्डलम् || १||

कुशचीरपरिक्षिप्तं ब्राह्म्या लक्ष्म्या समावृतम् |
यथा प्रदीप्तं दुर्धर्शं गगने सूर्यमण्डलम् || २||

शरण्यं सर्वभूतानां सुसमृष्टाजिरं सदा |
पूजितं चोपनृत्तं च नित्यमप्सरसां गणैः || ३||

विशालैरग्निशरणैः स्रुग्भाण्डैरजिनैः कुशैः |
समिद्भिस्तोयकलशैः फलमूलैश्च शोभितम् || ४||

आरण्यैश्च महावृक्षैः पुण्यैः स्वादुफलैर्वृतम् |
बलिहोमार्चितं पुण्यं ब्रह्मघोषनिनादितम् || ५||

पुष्पैर्वन्यैः परिक्षिप्तं पद्मिन्या च सपद्मया |
फलमूलाशनैर्दान्तैश्चीरकृष्णाजिनाम्बरैः || ६||

सूर्यवैश्वानराभैश्च पुराणैर्मुनिभिर्वृतम् |
पुण्यैश नियताहारैः शोभितं परमर्षिभिः || ७||

तद्ब्रह्मभवनप्रख्यं ब्रह्मघोषनिनादितम् |
ब्रह्मविद्भिर्महाभागैर्ब्राह्मणैरुपशोभितम् || ८||

तद्दृष्ट्वा राघवः श्रीमांस्तापसाश्रममण्डलम् |
अभ्यगच्छन्महातेजा विज्यं कृत्वा महद्धनुः || ९||

दिव्यज्ञानोपपन्नास्ते रामं दृष्ट्वा महर्षयः |
अभ्यगच्छंस्तदा प्रीता वैदेहीं च यशस्विनीम् || १०||

ते तं सोममिवोद्यन्तं दृष्ट्वा वै धर्मचारिणः |
मङ्गलानि प्रयुञ्जानाः प्रत्यगृह्णन्दृढव्रताः || ११||

रूपसंहननं लक्ष्मीं सौकुमार्यं सुवेषताम् |
ददृशुर्विस्मिताकारा रामस्य वनवासिनः || १२||

वैदेहीं लक्ष्मणं रामं नेत्रैरनिमिषैरिव |
आश्चर्यभूतान्ददृशुः सर्वे ते वनचारिणः || १३||

अत्रैनं हि महाभागाः सर्वभूतहिते रताः |
अतिथिं पर्णशालायां राघवं संन्यवेशयन् || १४||

ततो रामस्य सत्कृत्य विधिना पावकोपमाः |
आजह्रुस्ते महाभागाः सलिलं धर्मचारिणः || १५||

मूलं पुष्पं फलं वन्यमाश्रमं च महात्मनः |
निवेदयीत्वा धर्मज्ञास्ततः प्राञ्जलयोऽब्रुवन् || १६||

धर्मपालो जनस्यास्य शरण्यश्च महायशाः |
पूजनीयश्च मान्यश्च राजा दण्डधरो गुरुः || १७||

इन्द्रस्यैव चतुर्भागः प्रजा रक्षति राघव |
राजा तस्माद्वनान्भोगान्भुङ्क्ते लोकनमस्कृतः || १८||

ते वयं भवता रक्ष्या भवद्विषयवासिनः |
नगरस्थो वनस्थो वा त्वं नो राजा जनेश्वरः || १९||

न्यस्तदण्डा वयं राजञ्जितक्रोधा जितेन्द्रियाः |
रक्षितव्यास्त्वया शश्वद्गर्भभूतास्तपोधनाः || २०||

एवमुक्त्वा फलैर्मूलैः पुष्पैर्वन्यैश्च राघवम् |
अन्यैश्च विविधाहारैः सलक्ष्मणमपूजयन् || २१||

तथान्ये तापसाः सिद्धा रामं वैश्वानरोपमाः |
न्यायवृत्ता यथान्यायं तर्पयामासुरीश्वरम् || २२||
..................................................................
 You might also like : 



Share this article with your Network  : Bookmark and Share

No comments:

  © Blogger templates The Professional Template by 2008

Back to TOP