Ramayana Sundarkanda Part - I

valmiki
|| वाल्मीकि रामायण - सुन्दरकाण्ड ||

|| सर्ग ||

ततो रावणनीतायाः सीतायाः शत्रुकर्शनः |
इयेष पदमन्वेष्टुं चारणाचरिते पथि || १||

अथ वैदूर्यवर्णेषु शाद्वलेषु महाबलः |
धीरः सलिलकल्पेषु विचचार यथासुखम् || २||

द्विजान्वित्रासयन्धीमानुरसा पादपान्हरन् |
मृगांश्च सुबहून्निघ्नन्प्रवृद्ध इव केसरी || ३||

नीललोहितमाञ्जिष्ठपद्मवर्णैः सितासितैः |
स्वभावविहितैश्चित्रैर्धातुभिः समलङ्कृतम् || ४||

कामरूपिभिराविष्टमभीक्ष्णं सपरिच्छदैः |
यक्षकिंनरगन्धर्वैर्देवकल्पैश्च पन्नगैः || ५||

स तस्य गिरिवर्यस्य तले नागवरायुते |
तिष्ठन्कपिवरस्तत्र ह्रदे नाग इवाबभौ || ६||

स सूर्याय महेन्द्राय पवनाय स्वयम्भुवे |
भूतेभ्यश्चाञ्जलिं कृत्वा चकार गमने मतिम् || ७||

अञ्जलिं प्राङ्मुखः कुर्वन्पवनायात्मयोनये |
ततो हि ववृधे गन्तुं दक्षिणो दक्षिणां दिशम् || ८||

प्लवङ्गप्रवरैर्दृष्टः प्लवने कृतनिश्चयः |
ववृधे रामवृद्ध्यर्थं समुद्र इव पर्वसु || ९||

निष्प्रमाण शरीरः सँल्लिलङ्घयिषुरर्णवम् |
बाहुभ्यां पीडयामास चरणाभ्यां च पर्वतम् || १०||

स चचालाचलाश्चारु मुहूर्तं कपिपीडितः |
तरूणां पुष्पिताग्राणां सर्वं पुष्पमशातयत् || ११||

तेन पादपमुक्तेन पुष्पौघेण सुगन्धिना |
सर्वतः संवृतः शैलो बभौ पुष्पमयो यथा || १२||

तेन चोत्तमवीर्येण पीड्यमानः स पर्वतः |
सलिलं सम्प्रसुस्राव मदं मत्त इव द्विपः || १३||

पीड्यमानस्तु बलिना महेन्द्रस्तेन पर्वतः |
रीतिर्निर्वर्तयामास काञ्चनाञ्जनराजतीः |
मुमोच च शिलाः शैलो विशालाः समनःशिलाः || १४||

गिरिणा पीड्यमानेन पीड्यमानानि सर्वशः |
गुहाविष्टानि भूतानि विनेदुर्विकृतैः स्वरैः || १५||

स महासत्त्वसंनादः शैलपीडानिमित्तजः |
पृथिवीं पूरयामास दिशश्चोपवनानि च || १६||

शिरोभिः पृथुभिः सर्पा व्यक्तस्वस्तिकलक्षणैः |
वमन्तः पावकं घोरं ददंशुर्दशनैः शिलाः || १७||

तास्तदा सविषैर्दष्टाः कुपितैस्तैर्महाशिलाः |
जज्वलुः पावकोद्दीप्ता विभिदुश्च सहस्रधा || १८||

यानि चौषधजालानि तस्मिञ्जातानि पर्वते |
विषघ्नान्यपि नागानां न शेकुः शमितुं विषम् || १९||

भिद्यतेऽयं गिरिर्भूतैरिति मत्वा तपस्विनः |
त्रस्ता विद्याधरास्तस्मादुत्पेतुः स्त्रीगणैः सह || २०||

पानभूमिगतं हित्वा हैममासनभाजनम् |
पात्राणि च महार्हाणि करकांश्च हिरण्मयान् || २१||

लेह्यानुच्चावचान्भक्ष्यान्मांसानि विविधानि च |
आर्षभाणि च चर्माणि खड्गांश्च कनकत्सरून् || २२||

कृतकण्ठगुणाः क्षीबा रक्तमाल्यानुलेपनाः |
रक्ताक्षाः पुष्कराक्षाश्च गगनं प्रतिपेदिरे || २३||

हारनूपुरकेयूर पारिहार्य धराः स्त्रियः |
विस्मिताः सस्मितास्तस्थुराकाशे रमणैः सह || २४||

दर्शयन्तो महाविद्यां विद्याधरमहर्षयः |
सहितास्तस्थुराकाशे वीक्षां चक्रुश् च पर्वतम् || २५||

शुश्रुवुश्च तदा शब्दमृषीणां भावितात्मनाम् |
चारणानां च सिद्धानां स्थितानां विमलेऽम्बरे || २६||

एष पर्वतसङ्काशो हनूमान्मारुतात्मजः |
तितीर्षति महावेगं समुद्रं मकरालयम् || २७||

रामार्थं वानरार्थं च चिकीर्षन्कर्म दुष्करम् |
समुद्रस्य परं पारं दुष्प्रापं प्राप्तुमिच्छति || २८||

दुधुवे च स रोमाणि चकम्पे चाचलोपमः |
ननाद च महानादं सुमहानिव तोयदः || २९||

आनुपूर्व्याच्च वृत्तं च लाङ्गूलं रोमभिश् चितम् |
उत्पतिष्यन्विचिक्षेप पक्षिराज इवोरगम् || ३०||

तस्य लाङ्गूलमाविद्धमतिवेगस्य पृष्ठतः |
ददृशे गरुडेनेव ह्रियमाणो महोरगः || ३१||

बाहू संस्तम्भयामास महापरिघसंनिभौ |
ससाद च कपिः कट्यां चरणौ सञ्चुकोप च || ३२||

संहृत्य च भुजौ श्रीमांस्तथैव च शिरोधराम् |
तेजः सत्त्वं तथा वीर्यमाविवेश स वीर्यवान् || ३३||

मार्गमालोकयन्दूरादूर्ध्वप्रणिहितेक्षणः |
रुरोध हृदये प्राणानाकाशमवलोकयन् || ३४||

पद्भ्यां दृढमवस्थानं कृत्वा स कपिकुञ्जरः |
निकुञ्च्य कर्णौ हनुमानुत्पतिष्यन्महाबलः |
वानरान्वानरश्रेष्ठ इदं वचनमब्रवीत् || ३५||

यथा राघवनिर्मुक्तः शरः श्वसनविक्रमः |
गच्छेत्तद्वद्गमिष्यामि लङ्कां रावणपालिताम् || ३६||

न हि द्रक्ष्यामि यदि तां लङ्कायां जनकात्मजाम् |
अनेनैव हि वेगेन गमिष्यामि सुरालयम् || ३७||

यदि वा त्रिदिवे सीतां न द्रक्ष्यामि कृतश्रमः |
बद्ध्वा राक्षसराजानमानयिष्यामि रावणम् || ३८||

सर्वथा कृतकार्योऽहमेष्यामि सह सीतया |
आनयिष्यामि वा लङ्कां समुत्पाट्य सरावणाम् || ३९||

एवमुक्त्वा तु हनुमान्वानरान्वानरोत्तमः |
उत्पपाताथ वेगेन वेगवानविचारयन् || ४०||

समुत्पतति तस्मिंस्तु वेगात्ते नगरोहिणः |
संहृत्य विटपान्सर्वान्समुत्पेतुः समन्ततः || ४१||

स मत्तकोयष्टिभकान्पादपान्पुष्पशालिनः |
उद्वहन्नूरुवेगेन जगाम विमलेऽम्बरे || ४२||

ऊरुवेगोद्धता वृक्षा मुहूर्तं कपिमन्वयुः |
प्रस्थितं दीर्घमध्वानं स्वबन्धुमिव बान्धवाः || ४३||

तमूरुवेगोन्मथिताः सालाश्चान्ये नगोत्तमाः |
अनुजग्मुर्हनूमन्तं सैन्या इव महीपतिम् || ४४||

सुपुष्पिताग्रैर्बहुभिः पादपैरन्वितः कपिः |
हनुमान्पर्वताकारो बभूवाद्भुतदर्शनः || ४५||

सारवन्तोऽथ ये वृक्षा न्यमज्जँल्लवणाम्भसि |
भयादिव महेन्द्रस्य पर्वता वरुणालये || ४६||

स नानाकुसुमैः कीर्णः कपिः साङ्कुरकोरकैः |
शुशुभे मेघसङ्काशः खद्योतैरिव पर्वतः || ४७||

विमुक्तास्तस्य वेगेन मुक्त्वा पुष्पाणि ते द्रुमाः |
अवशीर्यन्त सलिले निवृत्ताः सुहृदो यथा || ४८||

लघुत्वेनोपपन्नं तद्विचित्रं सागरेऽपतत् |
द्रुमाणां विविधं पुष्पं कपिवायुसमीरितम् || ४९||

पुष्पौघेणानुबद्धेन नानावर्णेन वानरः |
बभौ मेघ इवोद्यन्वै विद्युद्गणविभूषितः || ५०||

तस्य वेगसमुद्भूतैः पुष्पैस्तोयमदृश्यत |
ताराभिरभिरामाभिरुदिताभिरिवाम्बरम् || ५१||

तस्याम्बरगतौ बाहू ददृशाते प्रसारितौ |
पर्वताग्राद्विनिष्क्रान्तौ पञ्चास्याविव पन्नगौ || ५२||

पिबन्निव बभौ चापि सोर्मिजालं महार्णवम् |
पिपासुरिव चाकाशं ददृशे स महाकपिः || ५३||

तस्य विद्युत्प्रभाकारे वायुमार्गानुसारिणः |
नयने विप्रकाशेते पर्वतस्थाविवानलौ || ५४||

पिङ्गे पिङ्गाक्षमुख्यस्य बृहती परिमण्डले |
चक्षुषी सम्प्रकशेते चन्द्रसूर्याविव स्थितौ || ५५||

मुखं नासिकया तस्य ताम्रया ताम्रमाबभौ |
सन्ध्यया समभिस्पृष्टं यथा सूर्यस्य मण्डलम् || ५६||

लाङ्गलं च समाविद्धं प्लवमानस्य शोभते |
अम्बरे वायुपुत्रस्य शक्रध्वज इवोच्छ्रितः || ५७||

लाङ्गूलचक्रेण महाञ्शुक्लदंष्ट्रोऽनिलात्मजः |
व्यरोचत महाप्राज्ञः परिवेषीव भास्करः || ५८||

स्फिग्देशेनाभिताम्रेण रराज स महाकपिः |
महता दारितेनेव गिरिर्गैरिकधातुना || ५९||

तस्य वानरसिंहस्य प्लवमानस्य सागरम् |
कक्षान्तरगतो वायुर्जीमूत इव गर्जति || ६०||

खे यथा निपतत्युल्का उत्तरान्ताद्विनिःसृता |
दृश्यते सानुबन्धा च तथा स कपिकुञ्जरः || ६१||

पतत्पतङ्गसङ्काशो व्यायतः शुशुभे कपिः |
प्रवृद्ध इव मातङ्गः कक्ष्यया बध्यमानया || ६२||

उपरिष्टाच्छरीरेण छायया चावगाढया |
सागरे मारुताविष्टा नौरिवासीत्तदा कपिः || ६३||

यं यं देशं समुद्रस्य जगाम स महाकपिः |
स स तस्याङ्गवेगेन सोन्माद इव लक्ष्यते || ६४||

सागरस्योर्मिजालानामुरसा शैलवर्ष्मणाम् |
अभिघ्नंस्तु महावेगः पुप्लुवे स महाकपिः || ६५||

कपिवातश्च बलवान्मेघवातश्च निःसृतः |
सागरं भीमनिर्घोषं कम्पयामासतुर्भृशम् || ६६||

विकर्षन्नूर्मिजालानि बृहन्ति लवणाम्भसि |
अत्यक्रामन्महावेगस्तरङ्गान्गणयन्निव || ६७||

प्लवमानं समीक्ष्याथ भुजङ्गाः सागरालयाः |
व्योम्नि तं कपिशार्दूलं सुपर्णमिति मेनिरे || ६८||

दशयोजनविस्तीर्णा त्रिंशद्योजनमायता |
छाया वानरसिंहस्य जले चारुतराभवत् || ६९||

श्वेताभ्रघनराजीव वायुपुत्रानुगामिनी |
तस्य सा शुशुभे छाया वितता लवणाम्भसि || ७०||

प्लवमानं तु तं दृष्ट्वा प्लवगं त्वरितं तदा |
ववृषुः पुष्पवर्षाणि देवगन्धर्वदानवाः || ७१||

तताप न हि तं सूर्यः प्लवन्तं वानरेश्वरम् |
सिषेवे च तदा वायू रामकार्यार्थसिद्धये || ७२||

ऋषयस्तुष्टुवुश्चैनं प्लवमानं विहायसा |
जगुश्च देवगन्धर्वाः प्रशंसन्तो महौजसं || ७३||

नागाश्च तुष्टुवुर्यक्षा रक्षांसि विबुधाः खगाः |
प्रेक्ष्याकाशे कपिवरं सहसा विगतक्लमम् || ७४||

तस्मिन्प्लवगशार्दूले प्लवमाने हनूमति |
इक्ष्वाकुकुलमानार्थी चिन्तयामास सागरः || ७५||

साहाय्यं वानरेन्द्रस्य यदि नाहं हनूमतः |
करिष्यामि भविष्यामि सर्ववाच्यो विवक्षताम् || ७६||

अहमिक्ष्वाकुनाथेन सगरेण विवर्धितः |
इक्ष्वाकुसचिवश्चायं नावसीदितुमर्हति || ७७||

तथा मया विधातव्यं विश्रमेत यथा कपिः |
शेषं च मयि विश्रान्तः सुखेनातिपतिष्यति || ७८||

इति कृत्वा मतिं साध्वीं समुद्रश् छन्नमम्भसि |
हिरण्यनाभं मैनाकमुवाच गिरिसत्तमम् || ७९||

त्वमिहासुरसङ्घानां पातालतलवासिनाम् |
देवराज्ञा गिरिश्रेष्ठ परिघः संनिवेशितः || ८०||

त्वमेषां ज्ञातवीर्याणां पुनरेवोत्पतिष्यताम् |
पातालस्याप्रमेयस्य द्वारमावृत्य तिष्ठसि || ८१||

तिर्यगूर्ध्वमधश्चैव शक्तिस्ते शैलवर्धितुम् |
तस्मात्सञ्चोदयामि त्वामुत्तिष्ठ नगसत्तम || ८२||

स एष कपिशार्दूलस्त्वामुपर्येति वीर्यवान् |
हनूमान्रामकार्यार्थं भीमकर्मा खमाप्लुतः || ८३||

तस्य साह्यं मया कार्यमिक्ष्वाकुकुलवर्तिनः |
मम इक्ष्वाकवः पूज्याः परं पूज्यतमास्तव || ८४||

कुरु साचिव्यमस्माकं न नः कार्यमतिक्रमेत् |
कर्तव्यमकृतं कार्यं सतां मन्युमुदीरयेत् || ८५||

सलिलादूर्ध्वमुत्तिष्ठ तिष्ठत्वेष कपिस्त्वयि |
अस्माकमतिथिश्चैव पूज्यश्च प्लवतां वरः || ८६||

चामीकरमहानाभ देवगन्धर्वसेवित |
हनूमांस्त्वयि विश्रान्तस्ततः शेषं गमिष्यति || ८७||

काकुत्स्थस्यानृशंस्यं च मैथिल्याश्च विवासनम् |
श्रमं च प्लवगेन्द्रस्य समीक्ष्योत्थातुमर्हसि || ८८||

हिरण्यनाभो मैनाको निशम्य लवणाम्भसः |
उत्पपात जलात्तूर्णं महाद्रुमलतायुतः || ८९||

स सागरजलं भित्त्वा बभूवात्युत्थितस्तदा |
यथा जलधरं भित्त्वा दीप्तरश्मिर्दिवाकरः || ९०||

शातकुम्भमयैः शृङ्गैः सकिंनरमहोरगैः |
आदित्योदयसङ्काशैरालिखद्भिरिवाम्बरम् || ९१||

तस्य जाम्बूनदैः शृङ्गैः पर्वतस्य समुत्थितैः |
आकाशं शस्त्रसङ्काशमभवत्काञ्चनप्रभम् || ९२||

जातरूपमयैः शृङ्गैर्भ्राजमानैः स्वयं प्रभैः |
आदित्यशतसङ्काशः सोऽभवद्गिरिसत्तमः || ९३||

तमुत्थितमसङ्गेन हनूमानग्रतः स्थितम् |
मध्ये लवणतोयस्य विघ्नोऽयमिति निश्चितः || ९४||

स तमुच्छ्रितमत्यर्थं महावेगो महाकपिः |
उरसा पातयामास जीमूतमिव मारुतः || ९५||

..................................................................

 You might also like : 



Share this article with your Network  : Bookmark and Share

No comments:

Post a Comment