Sri Rama Hrudayam


Sri Rama Hrudayam
ततो रामः स्वयं प्राह हनूमन्त मुपस्थितम् ।
शृणु तत्त्वं प्रवक्ष्यामि ह्यात्मनात्मपरात्मनाम् ॥

आकाशस्य यदा भेदः त्रिविधो दृश्यते महान् ।
जलाकाशे महाकाशः तदवच्छिन्न एव हि  ।
प्रतिबिम्बाख्य मपरं दृश्यते त्रिविधं नभ: ॥

बुद्ध्यवच्छिन्नचैतन्य्मेकं पूर्णमथापरम् ।
आभासस्त्वपरं बिम्बभूतमेवं त्रिधा चितिः ॥

साभासबुद्धेः कर्तृत्वं अविच्छिन्नेsविकारिणि ।
साक्षिण्यारोप्यते भ्रान्त्या जीवत्व्ं च तथाबुधैः ॥

आभासस्तु मृषा बुद्धिः, अविद्याकार्यमुच्यते ।
अविच्छिन्नं तु तद् ब्रह्म विच्छेदस्तु विकल्पत: ॥

अवच्छिन्नस्य पूर्णेन एकत्वं प्रतिपाद्यते ।
तत्त्वमस्यादिवाक्यैश्च साभासस्याहमस्तथा ॥

ऐक्यज्ञानं यदोत्पन्नं महावाक्येन चात्मनो: ।
तदाविद्या स्वकार्यैश्च नश्यत्येव न संशयः   ॥

एतद् विज्ञाय मद्भक्तो मद्भावायोपपद्यते ।
मद्भक्तिविमुखानां तु शास्त्रगर्हेषु मुह्यताम् ।
न ज्ञानं न च मोक्षः स्यात् तेषां जन्मशतै रपि ॥

इदं रहस्यं हृदयं ममात्मनो मयैव साक्षात् कथितं तवानघ ।
मद्भक्तिहीनाय शठाय न त्वया दातव्य मैन्द्रादपि राज्यतोsधिकम् ॥


Share this article with your Network  : Bookmark and Share

No comments:

  © Blogger templates The Professional Template by 2008

Back to TOP