देवताओं द्वारा श्रीगणेश का अभिनन्दन


देवताओं द्वारा श्रीगणेश का अभिनन्दन

देवा ऊचु:

गजाननाय पूर्णाय सांख्यरूपमयाय ते।
विदेहेन च सर्वत्र संस्थिताय नमो नम:॥

अमेयाय च हेरम्ब परशुधारकाय ते।
मूषकवाहनायैव विश्वेशाय नमो नम:॥

अनन्तविभवायैव परेषां पररूपिणे।
शिवपुत्राय देवाय गुहाग्रजाय ते नम:॥

पार्वतीनन्दनायैव देवानां पालकाय ते।
सर्वेषां पूज्यदेहाय गणेशाय नमो नम:॥

स्वानन्दवासिने तुभ्यं शिवस्य कुलदैवत।
विष्ण्वादीनां विशेषेण कुलदेवाय ते नम:॥

योगाकाराय सर्वेषां योगशान्तिप्रदाय च।
ब्रह्मेशाय नमस्तुभ्यं ब्रह्मभूतप्रदाय ते॥

सिद्धिबुद्धिपते नाथ सिद्धिबुद्धिप्रदायिने।
मायिने मायिकेभ्यश्च मोहदाय नमो नम:॥

लम्बोदराय वै तुभ्यं सर्वोदरगताय च।
अमायिने च मायाया आधाराय नमो नम:॥

गज: सर्वस्य बीजं यत्तेन चिह्नेन विघन्प।
योगिनस्त्वां प्रजानन्ति तदाकारा भवन्ति ते॥

तेन त्वं गजवक्त्रश्च किं स्तुमस्त्वां गजानन।
वेदादयो विकुण्ठाश्च शंकराद्याश्च देवपा:॥

शुक्रादयश्च शेषाद्या: स्तोतुं शक्ता भवन्ति न।
तथापि संस्तुतोऽसि त्वं स्फूत्र्या त्वद्दर्शनात्मना॥

Hindu God Ganesh, God Ganesh, Ganesh, Ganesh pooja, Hinduism

No comments:

  © Blogger templates The Professional Template by 2008

Back to TOP